प्रथमावृत्तिः
सूत्रम्॥
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्॥ ३।४।७८
पदच्छेदः॥
तिप्॰महिङ् १।१ लस्य ६।१ ७७ धातोः ५।१ ३।१।९१ प्रत्ययः १।१ ३।१।१ परश्च १।१ ३।१।२
समासः॥
तिप्तस्झि॰ इत्यत्र समाहारः द्वन्द्वः
अर्थः॥
धातोः, तिप्-तस्-झि, सिप्-थस्-थ, मिप्-वस्-मस् (परस्मैपदम्), त-आताम्-झ, थास्-आथाम्-ध्वम्, इट्-वहि-महिङ् (आत्मनेपदम्) इत्येते अष्टादश आदेशाः, लस्य=लकारस्य स्थाने भवन्ति। तत्र नव आदेशाः परस्मैपदिनां धातूनां, नव च आत्मनेपदिनाम्
उदाहरणम्॥
परस्मैपदिभ्यः-पठति, पठतः, पठन्ति, पठसि, पठठः, पठथ, पठामि, पठावः, पठामः।
आत्मनेपदिभ्यः-एधते, एधेते, एधन्ते, एधसे, एधेथे, एधध्वे, एधे, एधावहे, एधामहे। एवमन्येषु लकारेषु उदाहार्यम्
काशिका-वृत्तिः
तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ् ३।४।७८
लस्य तिबाद्य आदेशा भवन्ति। तिप्सिप्मिपां पकारः स्वरार्थः। इटष्टकारः इटो ऽत्
३।४।१०६ इति विशेषणार्थः, तिबादिभिरादेशैस् तुल्यत्वान् न देशविध्यर्थः। महिङो ङकारः तिङिति प्रत्याहारग्रहणार्थः। पचति, पचतः, पचन्ति। पचसि, पचथः, पचथ। पचामि, पचावः, पचामः। पचते, पचेते, पचन्ते। पचसे, पचेथे, पचध्वे। पचे, पचावहे, पचामहे। एवम् अन्येष्वपि लकरेषु उदाहार्यम्।
लघु-सिद्धान्त-कौमुदी
तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथाम्ध्वमिड्वहिमहिङ् ३७७, ३।४।७८
एतेऽष्टादश लादेशाः स्युः॥
न्यासः
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। , ३।४।७८
"पकारः स्वरार्थः" इति। "अनुदात्तौ सुप्तितौ"
३।१।४ इत्यनुदात्तो यथा स्यात्। "इटष्टकारः" इत्यादि। ननु चासत्यप्येतस्मिन् विशेषणार्थे नैवं किञ्चिदनिष्टं प्राप्नोति, "इटोऽत्"
३।४।१०६ इत्यत्र सूत्रे लिङादेशस्येटोऽद्विधानात्, ततोऽन्यस्य लिङ्गादेशस्येकारस्यासम्भवात्।
तिवाद्यवयवोऽस्तीति चेत्? न; तस्यालादेशत्वात्। तिबादयो हि समुदाया लादेशाः, न च तदवयवा इकारादयः। अर्थवद्ग्रहणे (व्या।प।१) परिभाषयार्थवदिकारस्य ग्रहणे सति कृतस्तबाद्यवयवस्य प्रसङ्गः ! न हि तेऽर्थवन्तः; तिबादीनामेव समुदायानामर्थवत्वात्।
तस्मान्न कत्र्तव्य एव टकारः? सत्यं न कत्र्तव्यं, य एवं प्रतिपत्तुं समर्थस्तं प्रति; यस्त्वसमर्थस्तं प्रति कत्र्तव्य एव। अथ "आद्यन्तौ टकितौ" (१।१।
४६) इति विशिष्टदेश आगमभूतस्यास्य विधानं यथा स्यादित्येवमर्थष्टकारः कस्मान्न विज्ञायते? इत्याह-- "तिबादिभिः" इत्यादि। तुल्यत्वम् = सदृशत्वम्, तत्ुपनरेकयोगनिर्दिष्टत्वेन। तस्मिन् सति लस्य
३।४।७७ इत्यनया षष्ठ()आ सर्वेषं तिबादीनां सम्बन्धो भवति। द्वितीये त्विट एव। तत्र यस्मिन्पक्ष आश्रीयमाणे सर्वेषामनुग्रहो भवति स एवाश्रयितुं युक्त इति स्थानषष्ठीयमङ्गीकत्र्तव्या। इटोऽप्यादेशत्वं तेन भवतीति न भवति देशवनिध्यर्थष्टकारः। अथ वा-- तिबादिभिरेकयोगनिर्दिष्टत्वेन यत् तिबादिभिस्तुल्यत्वं तत् साहचर्योपलक्षमम्। तिबादिभिस्तुल्यत्वात् तत्साहचर्यादित्यर्थः। साहचर्येण सन्दिग्धार्थनिश्चयो भवति, यथा-- सवत्सा धेनुरिति।
तथेहापि सन्देहो जायते-- किमयमादेशः? उतागमः? इति, तथापि तिबादिभिरसन्दिग्धादेशभावैः साहचर्यादादेशोऽयमिति निश्चीयते। तेन देशविध्यर्थता टकारस्य न भवति। यद्येवम्, "फलिपाटिनमिमनिजनां गुक् पटिनाकिधतश्च" (द।उ।१।
१०३) इत्यत्रापि पट()आदिभिरादेशैस्तुल्यत्वाद्गुगागमोऽप्यादेशः स्यात्? नैष दोषः; "संज्ञायाम्"
३।२।१८५ इति तत्रानुवत्र्तते,न चादेशेन संज्ञा गम्यते, किन्त्वागमेन। तस्माद्गुक आगमत्वं वेदितव्यम्। तत्रैकापि षष्ठी यदाऽदेशन सम्बध्यते तदा स्थानषष्ठी भवति, यदा त्वागमेन तदावयवषष्ठी। "महिङो ङकारः" इत्यादि।
अथ ङित्वार्थो ङकारः कस्मान्न भवति? तस्य "सार्वधातुकमपित्"
१।२।४ इत्यनेनैव सिद्धत्वात्॥
७र९। टित आत्मनेपदानां टेरे।
३।४।७९
"इह कस्मान्न भवति" इत्यादि। शानजपि टितो लकारस्य सम्बन्ध्यात्मनेपदसंज्ञकश्च, तस्मात् तस्यापि टेरेत्वेन भवितव्यमित्यभिप्रायः। "प्रकृतैः" इत्यादि। प्रकृतानां तिबादीनां मध्ये "यान्यात्मनेपदानि"--- इत्येवमिहात्मनेपदानि विशिष्यन्ते, तेन न भवत्येष दोषः। न हि शानच् तिबादिषु सन्निविष्टः। लाघवार्थं "टितस्तङाम्" इति वाच्ये "आत्मनेपदानाम्" इति वचनं वैचित्र्यार्थम्।
ननु च "तङाम्" इत्युच्यमाने तसस्तकारेण प्रत्याहारग्रहणं स्यात्? अर्थवद्()ग्रहणपरिभाषया (व्या।प।१) न भविष्यति।
यस्तर्हि थस्य स्थान आदिश्यते तेन स्यात्? न; तिबादिषु सन्निविष्टा ये तेषां तिङां ग्रहणं विज्ञास्यते। प्रत्यासत्तेर्वा आत्मपदीयेन तशब्देन प्रत्याहारग्रहणं विज्ञास्यते। व्याप्तेस्त्वनाश्रयः; लक्ष्यस्थित्यनुरोधात्॥
बाल-मनोरमा
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथाध्वमिड्वहिमहिङ् ५, ३।४।७८
तिप्तस्। तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त , आताम्, झ,थास्, आथाम्, ध्वम्, इड्, वहि, महिङ्। एषां समाहारद्वन्द्वात्प्रथमैकवचनम्। लस्येति स्थानषष्ठ()न्तमधिकृतम्। तेन आदेश इति लभ्यते। फलितमाह-- एत इति। तसादौ रुत्वाऽभाव आर्षः। तिबादौ पकारानुबन्धयोजनं तु द्वेष्टीत्यादौ सार्वधातुकमपदिति ङित्त्वनिवृत्त्यर्थम्। तदुदाहरणेषु स्पष्टीभविष्यति।
तत्त्व-बोधिनी
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिडव्वहिमहिङ् ५, ३।४।७८
समाहारे द्वन्द्वः। इटष्टकार आगमलिङ्गं न भवति, सप्तदशभिरादेशैः समभिव्याहारात्। किंतु "इटोऽ"दिति विशेषणार्थः। "एर"दित्युच्यमाने एधेवहि एधेमहीत्यत्रापि स्यात्, वर्णग्रहणे प्रत्ययग्रहणाऽर्थवद्ग्रहणपरिभाषयोरप्रवृत्तेः। केचित्तु-- "इटोऽ"दित्यत्र लिङ इत्यनुवर्तनाल्लिङ्गादेशस्येवर्णस्येति सामानाधिकरण्येन व्याख्याने एधेवहि एधेमहीत्यादावतिप्रसङ्गो नास्त्येव। न हि तत्र इकामात्रमादेशो भवति। तेन "इटोऽ"दित्यत्र टकारः स्पष्टप्रतिपत्त्यर्थ एवेत्याहुः। तच्चिन्त्यम्। वहि-- महीत्यस्यापि स्थानिवत्त्वेन लिङ्त्वात्। महिङो ङकारस्तिङ् तङिति प्रत्यानिषेधो न, तथा च वृश्चतेः पृच्छतेश्च कर्मणि रलिटि वव्रश्चिमहे पप्रच्छिमहे इत्यत्र "ग्रहिज्ये"ति संप्रसारणं न।